(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।
॥ श्रीः ॥
6.91. अध्यायः 091
Mahabharata - Bhishma Parva - Chapter Topics
दुर्योधनघटोत्कचयोर्युद्धम् ॥ 1 ॥
Mahabharata - Bhishma Parva - Chapter Text
धृतराष्ट्र उवाच। 6-91-0x(4171)(42796)
इरावन्तं तु निहतं दृष्ट्वा पार्था महारथाः ।
संग्रामे किमकुर्वन्त तन्ममाचक्ष्व सञ्जय ॥ 6-91-1(42797)
सञ्जय उवाच। 6-91-2x(4172)
इरावन्तं तु निहतं संग्रामे वीक्ष्य राक्षसः।
व्यनदत्सुमहानादं भैमसेनिर्घटोत्कचः ॥ 6-91-2(42798)
नदतस्तस्य शब्देन पृथिवी सागराम्बरा ।
सपर्वतवना राजंश्चचाल सुभृशं तदा ॥ 6-91-3(42799)
अन्तरिक्षं दिशश्चैव सर्वाश्च प्रदिशस्तथा ।
`चेलुश्च सहसा तत्र तेन नादेन नादिताः' 6-91-4(42800)
तं श्रुत्वा सुमहानादं तव सैन्यस्य भारत ॥
ऊरुस्तम्भः समभवद्वेपथुः स्वेद एव च। 6-91-5(42801)
सर्व एव महाराज तावका दीनचेतसः ॥
सर्वतः समचेष्टन्त सिंहभीता गजा इव । 6-91-6(42802)
नर्दित्वा सुमहानादं निर्घातमिव राक्षसः ॥
ज्वलितं शूलमुद्यम्य रूपं कृत्वा विभीषणम् । 6-91-7(42803)
नानारूपप्रहरणैर्वृतो राक्षसपुङ्गवैः ॥
आजघान सुसंक्रुद्धः कालान्तकयमोपभः । 6-91-8(42804)
तमापतन्तं संप्रेक्ष्य संक्रुद्धं भीमदर्शनम् ॥
स्वबलं च भयात्तस्य प्रायशो विमुखीकृतम् । 6-91-9(42805)
ततो दुर्योधनो राजा घटोत्कचमुपाद्रवत् ॥
प्रगृह्य विपुलं चापं सिंहवद्विनदन्मुहुः । 6-91-10(42806)
पृष्ठतोऽनुययौ चैनं स्रवद्भिः पर्वतोपमैः ॥
कुञ्जरैर्दशसाहस्रैर्वङ्गानामधिपः स्वयम् ॥ 6-91-11(42807)
पुत्रं तव महाराज चुकोप स निशाचरः ।
ततः प्रववृते युद्धं तुमुलं रोमहर्षणम् ॥ 6-91-12(42808)
राक्षसानां च राजेन्द्र दुर्योधनबलस्य च।
गजानीकं च संप्रेक्ष्य मेघबृन्दमिवोदितम् ॥ 6-91-13(42809)
अभ्यधावन्त संक्रुद्धा राक्षसाः शस्त्रपाणयः ।
नदन्तो विविधान्नादान्मेघा इव सविद्युतः ॥ 6-91-14(42810)
शरशक्त्यृष्टिनाराचैर्निघ्नन्तो गजयोधिनः ।
भिण्डिपालैस्तथा शूलैर्मुद्गरैः सपरश्वथैः ॥ 6-91-15(42811)
पर्वताग्रैश्च वृक्षैश्च निजघ्नुस्ते महागजान् ।
भिन्नकुम्भान्विरुधिरान्भिन्नगात्रांश्च वारणान् ॥ 6-91-16(42812)
अपश्याम महाराज वध्यमानान्निशाचरैः ।
तेषु प्रक्षीयमाणेषु भग्नेषु गजयोधिषु ॥ 6-91-17(42813)
दुर्योधनो महाराज राक्षसान्समुपाद्रवत्।
अमर्षवशमापन्नस्त्यक्त्वा जीवितात्मनः ॥ 6-91-18(42814)
मुमोच निशितान्बाणान्राक्षसेषु परंतप ।
जघान च महेष्वासः प्रधानांस्तत्र राक्षसान् ॥ 6-91-19(42815)
संक्रुद्धो भरतश्रेष्ठ पुत्रो दुर्योधनस्तव ।
वेगवन्तं महारौद्रं विद्युज्जिह्वं प्रमाथिनम् ॥ 6-91-20(42816)
शरैश्चतुर्भिश्चतुरो निजघान महाबलः ।
ततः पुनरमेयात्मा शरवर्षं दुरासदम् ॥ 6-91-21(42817)
मुमोच भरतश्रेष्ठो निशाचरबलं प्रति।
तत्तु दृष्ट्वा महत्कर्म पुत्रस्य तव मारिष ॥ 6-91-22(42818)
क्रोधेनाभिप्रजज्वाल भैमसेनिर्महाबलः ।
स विष्फार्य महच्चापमिन्द्राशनिसमप्रभम् ॥ 6-91-23(42819)
अभिदुद्राव वेगà